||Sundarakanda ||

|| Sarga 61||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकाण्ड
अथ एकषष्टितमस्सर्गः॥

ततो जाम्बवतो वाक्यमगृःणन्त वनौकसः।
अङ्गदप्रमुखा वीरा हनुमांश्च महाकपिः॥1||

स॥ ततः अङ्गदप्रमुखाः वनौकसः महाकपिः हनुमंतश्चजांबवतः वाक्यं अगृह्णंत॥

Then Angada and other leaders, and other wanderers of the forest including Hanuman accepted the words of great Vanara Jambavan.

प्रीतिमन्तः ततः सर्वे वायुपुत्त्र पुरस्सराः।
महेंद्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः॥2||
मेरुमंदरसंकाशा मत्ता इव महागजाः।
छादयंत इवाकाशं महाकाया महाबलाः॥3||

स॥ ततः सर्वे प्लवगर्षभाः प्रीतिमन्तः महेंद्राद्रिं परित्यज्य वायुपुत्त्र पुरस्सराः पुप्लुवुः॥ (ते) मेरुमंदरसंकाशाः मत्ताः महागजाः इव आकाशं छादयंतः इव महाबलाः महाकाया ( पुप्लुवुः)

All of the Vanaras, who were very pleased left Mahendra mountain led by Hanuman and flew into the sky. They were like elephants in the rut ,resembling the mountains Meru and Mandara. They flew as if covering the whole sky.

सभाज्यमानं भूतैः तं आत्मवंतं महाबलम्।
हनूमंतं महावेगं वहंत इव दृष्टिभिः॥4||
राघवेचार्थनिर्वृत्तिं कर्तुं च परमं यशः।
समादाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः॥5||
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनंदिनः।
सर्वे रामप्रतीकारे निश्चितार्धा मनस्विनः॥6||

स॥ (ते) भूतैः सभाज्यमानं आत्मवंतं महाबलम् हनूमंतं महावेगं वहंत इव दृष्टिभिः ॥ (ते) समृद्धार्थाः , कर्मसिद्धिभिः राघवे च अर्थनिर्ववृत्तिं परमं यशं कर्तुं समाधाय , उन्नताः ॥ सर्वे प्रियाख्यानोन्मुखाः सर्वे युद्धाभिनंदिनः सर्वे मनस्स्विनः सर्वे निश्चितार्थः ॥

Praised by all beings that self-confident mighty Hanuman flying at great speeds was seen by them without blinking. They flew having accomplished their task, very much wanting to successfully completing the task of Rama and concentrating on remaining in the service of Raghava to achieve the supreme fame. All of them flew in the sky ,talking among themselves. All of them were anxious to fight a war. All of them were determined to please Rama.

प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः।
नंदनोपममासेदुर्वनं द्रुमलतायुतम्॥7||
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्॥8||

स॥ ततः ते काननौकसः खं आप्लुत्य प्लवमानाः द्रुमलयतायुतं नन्दनोपमम् वनं आसेदुः॥ अधृष्यं सर्वभूतानां अभिरक्षितं सर्वभूत मनोहरं यत् सुग्रीवस्य मधुवनं नाम तत्॥

Then the forest dwellers leaping and rising up in the sky entered the garden which is full of trees and creepers which is like Indra's garden. Well protected, difficult to access, enchanting to all beings that beautiful garden of Sugriva is called Madhuvan.

यद्रक्षति महावीर्यः सदा ददिमुखः कपिः।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः॥9||
ते त द्वन मुपागम्य बभूवुः परमोत्कटाः।
वानरा वानरेन्द्रस्य मनः कांततमं महत्॥10||

स॥ महात्मनः कपिमुख्यस्य सुग्रीवस्य मातुलः महावीर्यः दधिमुखः कपिः यत् सदा रक्षति ॥ ते वानराः वानरेन्द्रस्य मनः क्लांततमं महत् तत् वनं उपागम्य परमोत्कटाः बभूवुः ॥

The great Vanara leader, Sugriva's maternal uncle Dadhimukha a great hero always protects the grove. The Vanaras entering the great enchanting garden of the king of Vanaras were highly desirous of tasting the honey of the groves.

ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्।
कुमारं अभ्ययाचंत मधूनि मधुपिङ्गळाः॥11||
ततः कुमारस्तान् वृद्धान् जांबवत्प्रमुखान् कपीन्।
अनुमान्य ददौ तेषां विसर्गं मधुभक्षणे॥12||

स॥ ततः मधुपिङ्गळाः ते वानराः महत् मधुवनं दृष्ट्वा हृष्टाः कुमारं मधूनि अभ्ययाचंत॥ततः कुमारः वृद्धान् तान् जाम्बवत प्रमुखान् कपीन् अनुमान्य तेषां मधु भक्षणे निसर्गं ददौ॥

The honey colored Vanaras delighted at having seen the great Madhuvan, sought the prince's permission. Then the prince seeking the older Vanara leaders like Jambavan's counsel gave them permission to drink honey.

ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः।
मुदिताः प्रेरिताश्चापि प्रनृत्यंतोऽभवं स्ततः॥13||

स॥ ततः सर्वे वनौकसः अनुमताः सम्प्रहृष्टाः तदा प्रेरिताः मुदिताः प्रनृत्यंतः अभवन् ॥

Thus permitted and encouraged, all the Vanaras happily started dancing.

गायंति केचित् प्रणमंति केचित् नृत्यंति केचित् प्रहसंति केचित्।
पतंति केचित् विचरंति केचित् प्लवंति केचित् प्रलपंति केचित्॥14||
परस्परं केचिदुपाश्रयंते परस्परं केचिदुपाक्रमंते।
परस्परं केचिदुपब्रुवंते परस्परं केचिदुपारमंते॥15||

स॥ केचित् गायन्ति।केचित् प्रणमंति।केचित् नृत्यन्ति । केचित् प्रहसन्ति। केचित् पतन्ति । केचित् पतन्ति। केचित् विचरन्ति। केचित् प्लवन्ति।केचित् प्रलपन्ति॥ केचित् परस्परं उपाश्रयन्ते। केचित् परस्परं उपाक्रमंति। केचित् परस्परं उपब्रुवंति॥ केशित् परस्परं उपारमंते॥ कॊंदरु ऒकरिनॊकरितो आडुकॊनुचुन्नारु.

Some sang. Some prostrated. Some danced. Some laughed. Some fell down. Some roamed. Some jumped up. Some were babbling. Some were comforting each other. Some were holding each other. Some were talking to each other. Some were entertaining each other.

द्रुमाद्द्रुमं केचिदभिद्रवंते क्षितौनगाग्रान् निपतंति केचित्।
महीतला केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसंपतंति ||16||
गायंतमन्यः प्रहसन्नुपैति हसंतमन्यः प्ररुदन्नुपैति।
रुदंत मन्यः प्रणुदन्नुपैति नुदंतमन्यः प्रणदन्नुपैति॥17||

स॥ केचित् द्रुमात् द्रुमं अभिद्रवन्ते । केचित् क्षितौ नगाग्रात् निपतन्ति । उदीर्णवेगाः महीतलात् महाद्रुमाग्राणि अभिसंपतन्ति ॥गायन्तं अन्यः प्रहसन् उपैति। हसन्तं अन्यः प्ररुदन् उपैति। रुदंतं अन्यः प्रणुदन् उपैति ॥ नुदन्तं अन्यः प्रणदन् उपैति॥

Some ran from one tree to another. Some jumped from the top of the tree. Some jumped from broken branches. Some very swift ones fell down from the top of the huge trees. While one was singing, others approached him laughing. While one was laughing then another went roaring. While one was roaring another was pushing. While one was encouraging the other who fell over and was shouting

समाकुलं तत्कपि सैन्यमासीन् मधुप्रसानोत्कट सत्त्वचेष्टं |
न चात्रकश्चन्नभभूव मत्तो न चात्र कश्चिन्नबभूव तृप्तः॥18||
ततो वनं तत्परिभक्ष्यमाणम् द्रुमांश्च विध्वंसितपत्त्रपुष्पान्।
समीक्ष्य कोपाद्दधिवक्त्रनामा निवारयामास कपिः कपींस्तान्॥19||

स॥ मधुप्रसानोत्कट सत्त्वचेष्टं तत् कपिसैन्यं समाकुलं आसीत् । अत्र कश्चित् मत्तः न बभूव।इति न । अत्र कश्चित् तृप्तः न बभूव इति न॥ ततः दधिवक्त्रनामा कपिः तत् वनं विध्वंसितपत्रपुष्पान् द्रुमांश्च समीक्ष्य कोपात् परिभक्ष्यमाणम् तान् कपीन् निवारयामास॥

Having lost control due to excessive drinking , the Vanara army sat there quietly. It is not that there was none who was not intoxicated. It is not that there was none who was not satisfied. Seeing the leaves, flowers and trees which were destroyed, and the Vanaras who were drunk, the Vanara by name Dadhimukha started stopping them.

सतैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः।
चकार भूयो मति मुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः॥20||
उवाचकांश्चित्परुषाणि धृष्ट मसक्तमन्यांश्च तलैर्जघान।
समेत्यकैश्चित् कलहं चकार तथैव साम्नोपजगाम कांश्चित्॥21||

स॥ प्रवृद्धैः तैः परिभर्त्स्यमानः वनस्य गोप्ता हरिवीर वृद्धः उग्रतेजाः वानरेभ्यः वनस्य रक्षां प्रति भूयः मतिं चकार॥कांश्चित् परुषाणि उवाच। अन्यांश्च असक्तं । तलैः धृष्टं जघान। केचित् समेत्य । केचित् कलहं चकार। तहैव कांस्चित् साम्ना उपजगाम॥

Reprimanded by those with bloated egos, the protector of the garden , the old Vanara leader again thought over means of protecting the garden from the powerful Vanaras. Some he spoke harshly. Some he did not say anything. Some he slapped with his palm. Some he patted on the back pleasantly. Some he quarreled. Some he approached in a conciliatory manner.

सतैर्मदात् संपरिवार्य वाक्यै
र्बलाच्च तेन प्रतिवार्यमाणैः।
प्रधर्षितः त्यक्तभयैः समेत्य
प्रकृष्यते चा प्यनवेक्ष्य दोषम्॥22||
नखैस्तुदंतो दशनैर्दशंतः
तलैश्च पादैश्च समापयंतः।
मदात्कपिं कपयः समग्रा
महावनं निर्विषयं च चक्रुः॥23||

स॥ तः मदात् अप्रतिवार्य वाक्यैः तेन बलात् प्रतिवार्यमाणैः त्यक्त भयैः तैः प्रधर्षितः। सः दोषं च अनवेक्ष्य सम्ये प्रकृष्यते च॥समग्राः कपयः मदात् नखैः तुदन्तः । दशनैः दसन्तः। तलैश्च पादैश्च तं कपिं समापयन्तः । (ते सर्वे) महावनं निर्विषयं चकृः॥

In their drunkenness speaking in abusive language Vanaras retaliated with their strength without fear. Some roared without seeing their faults, some held and pulled him. Drunk, they all together scratched with their nails. Bit with their teeth. They kicked with their hands and feet. They looted the garden completely.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत् सुन्दरकाण्डॆ एकषष्टितमस्सर्गः ||

Thus ends Sarga sixty one of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki

|| om tat sat||